गोविन्दः

सुधाव्याख्या

गां भुवं धेनुं स्वर्गं वेदं वा अविदत् । (विन्दति) । विद्लृ लाभे (तु० उ० अ०) । गवादिषु विन्देः संज्ञायाम् (वा० ३.१.१३८) इति शः । वराहरूपेणोद्धरणात् । कामधेनोगैश्वर्यप्राप्तेः । इन्द्रेण स्वर्गस्य निवेदनात् । मत्स्यादिरूपेण वेदाहरणाद्वा । (गोविन्दो वासुदेवे स्याद्गवाध्यक्षे बृहस्पतौ') ॥