जनार्दनः

सुधाव्याख्या

जननं जनः । भावे घञ् (३.३.१८) । ‘जनिवध्योश्च' (७.३.३५) इति न वृद्धिः। जनो जन्म । तमर्दयति जनार्दनः । ‘अर्द हिंसायाम्' (चु० उ० से०) नन्द्यादित्वात् (३.१.१३४) ल्युः। जनाः समुद्रस्थदैत्यभेदाः, तेषामर्दन इति वा (जनैरर्द्यत इति वा । अर्द गतौ याचने च । ‘कृत्यल्युटः-’ (३.३.१३३) इति कर्मणि ल्युट्) ॥