अच्युतः

सुधाव्याख्या

नास्ति च्युतं स्खलनं स्वपदाद्यस्य । नाच्योष्ट इति वा । ‘च्युङ् गतौ’ (भ्वा० अ० अ०) । ‘गत्यर्था–’ (३.४.७२) इति क्तः । (‘अच्युतस्तु हरौ पुंसि त्रिषु स्थिरे’) ॥