शार्ङ्गी

सुधाव्याख्या

शृङ्गस्य विकारः शार्ङ्गं धनुः । अनुदात्तादेश्च (४.३.१४०) इत्यञ् । तदस्यास्ति । अत इनिठनौ (५.२.११५) इति इनिः ॥


प्रक्रिया

शृङ्ग+अञ् - अनुदात्तादेश्च 4.3.140
शृङ्ग्+अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शार्ङ्ग+अ - तद्धितेष्वचामादेः 7.2.117
शार्ङ्ग्+अ - यस्येति च 6.4.148
शार्ङ्ग+सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शार्ङ्ग+सु+इनि - अत इनिठनौ 5.2.115
शार्ङ्ग+इनि - सुपो धातुप्रातिपदिकयोः 2.4.71
शार्ङ्ग+इन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शार्ङ्गिन्+सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शार्ङ्गीन्+सु - सान्तमहतः संयोगस्य 6.4.10
शार्ङ्गीन्+स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शार्ङ्गीन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
शार्ङ्गी - नलोपः प्रातिपदिकान्तस्य 8.2.7