पुण्डरीकाक्षः

सुधाव्याख्या

पुण्डरीकमिवाक्षिणी यस्य । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् (५.४.७३) । पुण्डरीकेष्वक्षि यस्य वा । एतच्च हरिस्ते साहस्रं कमल बलिमादाय इत्यत्र व्यक्तम् । यद्वा पुण्डरीकं लोकात्मकम् अक्षति । ‘अक्षू व्याप्तौ’ (भ्वा० प० वे०) कर्मण्यण् (३.२.१) तत् क्षायति वा । क्षै क्षये (भ्वा० प० अ०) आतोऽनुप (३.२.३) इति कः । अन्येषामपि (६.३.१३७) इति दीर्घः आङ्प्रश्लेषो वा । तत्र ‘सुपि’ (३.२.४) इति (योगविभागात्) ‘मूलविभुजादि’ (वा०३.२.५) इति क: ।


प्रक्रिया

पुण्डरीक+सु अक्षिन्+औ - उपमानानि सामान्यवचनैः 2.1.55
पुण्डरीक+अक्षिन् - सुपो धातुप्रातिपदिकयोः 2.4.71
पुण्डरीक+अक्षिन्+षच् - बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्‌ षच् 5.4.113
पुण्डरीक+अक्षिन्+अ - हलन्त्यम् 1.3.3, षः प्रत्ययस्य 1.3.6, तस्य लोपः 1.3.9
पुण्डरीक+अक्ष्+अ - नस्तद्धिते 6.4.144
पुण्डरीकाक्ष - अकः सवर्णे दीर्घः 6.1.101
पुण्डरीकाक्ष + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पुण्डरीकाक्ष + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पुण्डरीकाक्ष + रु - ससजुषो रुः 8.2.66
पुण्डरीकाक्ष + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पुण्डरीकाक्षः - खरवसानयोर्विसर्जनीयः 8.3.15