दुःखम्

सुधाव्याख्या

दुष्टानि खान्यस्मिन् । यद्वा दुर्निन्दितं खनति । अन्येभ्योऽपि- (वा० ३.२.१०१) इति डः । यद्वा दुःखयति । 'सुख दु:ख तत्क्रियायाम्’ (उ० से०) चुरादिः । पचाद्यच् (३.१.१४) ।