तीव्रवेदना

सुधाव्याख्या

विद वेदनाख्यानविवासेषु’ (चु० अ० से०) । णिच् (३.१.२६) । युच् (३.३.१०७) तीव्रा चासौ वेदना च । (३) त्रीणि तीव्रदुःखस्य । नरकरुज इति स्वामी ।


प्रक्रिया

धातुः - विदँ चेतनाख्याननिवासेषु


विद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विद् + णिच् - हेतुमति च 3.1.26
विद् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वेद् + इ - पुगन्तलघूपधस्य च 7.3.86
वेद् + इ + युच् - ण्यासश्रन्थो युच् 3.3.107
वेद् + युच् - णेरनिटि 6.4.51
वेद् + यु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वेद् + अन - युवोरनाकौ 7.1.1
तीव्र + सु + वेदन + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
तीव्र + वेदन - सुपो धातुप्रातिपदिकयोः 2.4.71
तीव्रवेदन + टाप् - अजाद्यतष्टाप्‌ 4.1.4
तीव्रवेदन + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
तीव्रवेदना - अकः सवर्णे दीर्घः 6.1.101
तीव्रवेदना + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तीव्रवेदना + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तीव्रवेदना - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68