आमनस्यम्

सुधाव्याख्या

मानसे साधु । ‘तत्र साधुः (४.४.९८) इति यत् । मानस्याद्भिन्नम् । 'प्रसूतिजममानस्यं कृच्छं कष्टं कलाकलम्’ इति वाचस्पतिः । अमनसो भावः आमनस्यम् । ब्राह्मणादित्वात् (५.१.१२४) ष्यञ्-इति स्वामी ॥