कारणा

सुधाव्याख्या

स्त्रियौ । द्वे, निर्मूल्यकर्मकरणे इति मुकुटः, नरके हठात्प्रक्षेपस्येति स्वामी, ‘भद्राख्यकरणस्य' इत्यन्ये । कारणेति । 'कॄञ् हिंसायाम्’ (क्र्या० उ० से०) । ‘यत निकारोपस्कारयोः’ (चु० उ० से०) । आभ्यां णिच् (३.१.२६) । ण्यासश्रन्थ- (३.३.१०७) इति युच् । कारणं करणे हेतुवधयोश्च नपुंसकम् । स्त्री यातनायां च' ॥


प्रक्रिया

धातुः - कृञ् हिंसायाम्


कृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कृ + णिच् - हेतुमति च 3.1.26
कृ + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कार् + इ - अचो ञ्णिति 7.2.115
कार् + इ + युच् - ण्यासश्रन्थो युच् 3.3.107
कार् + युच् - णेरनिटि 6.4.51
कार् + यु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कार + अन - युवोरनाकौ 7.1.1
कारण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
कारण + टाप् - अजाद्यतष्टाप्‌ 4.1.4
कारण + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कारणा - अकः सवर्णे दीर्घः 6.1.101
कारणा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कारणा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कारणा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68