आजूः

सुधाव्याख्या

आजवते । ‘जू गतौ’ (भ्वा० आ० अ०) । क्विब्वचिप्रच्छि-' (वा० ३.२.१७८) इति क्विब्दीर्घौ । आ अज्यते वा । ‘आजूवेतनयोर्विष्टि: कर्मकृत्कर्मणोरपि’ इति शाश्वतः — इति स्वामी । यत्तु-आजू रेफान्तापि, इति पञ्चिका स्वामी च इति मुकुटः । तन्न । पूर्वप्रदर्शितस्वाम्युक्त विग्रहद्वयेनापि रेफान्तताया अलाभात् ।