तिक्तः

सुधाव्याख्या

तेजयति स्म । तिज निशाने (चु० प० से०) । सामान्यापेक्षज्ञापकाच्चुरादीनां णिजभावे ‘गत्यर्थाकर्मक-’ (३.४.७२) इति क्तः । पक्षान्तरे तु संज्ञापूर्वकत्वाद्गुणाभावः । तिक्तस्तु सुरभौ रसे । तिक्ता तु कटुरोहिण्यां तिक्तं पर्पटकौषधे’ इति हैमः ।