कटुः

सुधाव्याख्या

कटत्यावृणोति तीक्ष्णतया मुखम् । कटे वर्षावरणयोः (भ्वा० प० से०) । ‘कटिवटिभ्यां च' (उ० १.८) इत्युः । ‘कट्वकार्ये मत्सरे च दूषणे च कटू रसे । तिक्ते प्रियङ्गसुरभौ कटुका राजिकास्वपि' इति हैमः।