तुवरः

सुधाव्याख्या

‘तुः’ सौत्रो धातुः । तवीति हिनस्ति रोगान् । छित्वरछत्वर-’ (उ०३१) इत्यादिना ष्वरच् । ('तुवरस्तु कषाये स्यात्काक्ष्याढक्योस्तुवर्यपि') । दीर्घादिरपि । ‘नरेऽश्मश्रुणि शृङ्गाभ्यां रहिते गवि तूवरः । काले प्राप्ते कषाये च रसे पुंव्यञ्जने च्युते’ । इत्युत्पलिनी । ‘नापि कषायस्तुवरः इति बोपालितः । पुंसि कषायस्तुवरम्' इति क्लीबकाण्डे रत्नकोषः ।


प्रक्रिया

धातुः - तु सौत्रो धातुः


तु + ष्वरच् - छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्वरसंयद्वराः (३.१) । उणादिसूत्रम् ।
तु + वर - हलन्त्यम् 1.3.3, षः प्रत्ययस्य 1.3.6, तस्य लोपः 1.3.9
तुवर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तुवर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुवर + रु - ससजुषो रुः 8.2.66
तुवर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुवरः - खरवसानयोर्विसर्जनीयः 8.3.15