मधुरः

सुधाव्याख्या

मधु माधुर्यमस्यास्ति । 'ऊषसुषि-’ (५.२.१०७) इति रः । (‘मधुरं विषे’) । मधुरस्तु प्रिये स्वादौ रसे च रसवत्यपि । मधुरा मथुरापुर्यां यष्टीमेदामधूलिषु । मधुकुक्कुटिकायां च मिश्रेयाशतपुष्पयो’ इति हैम: ॥