लवणः

सुधाव्याख्या

लुनाति जाड्यम् । ‘लूञ् छेदने’ (न्या० उ० से०) । नन्द्यादिल्युः (३.१.१३४) लवणाल्लुक् (४.४.२४) इति लिङ्गाण्णत्वम् । ‘लवणो राक्षसे रसे । अस्थिभेदे लवणा त्विट्’ इति हैम: ।