अम्ब्लः

सुधाव्याख्या

अम्ब्यते शब्द्यते भोक्तृभिः । ‘अबि शब्दे’ (भ्वा० प० से०) । 'मूशक्यविभ्य: क्लः’ (उ० ४.१०८) अम्ब्लः । 'अम रोगे’ (चु० उ० से०) । अमति रुजत्यरुचिम् । बाहुलकात्क्ले अम्लोऽपि । अम्लो रसेऽम्लवेतसे । (अम्ली चाङ्गेर्याम्) इति हैम: ।