क्षपा

सुधाव्याख्या

क्षपयति चेष्टाम् । ‘क्षै क्षये' (स्वा० प० से०) । अस्माण्ण्यन्तान्मितः पचाद्यच् ।


प्रक्रिया

धातुः - क्षै क्षये


क्षै + णिच् - हेतुमति च 3.1.26
क्षै + इ -हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
क्षा + इ - आदेच उपदेशेऽशिति 6.1.45
क्षा + पुक् + इ - अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ 7.3.36
क्षा + प् + इ - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षाप् + इ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
क्षप् + इ + अच् - मितां ह्रस्वः 6.4.92
क्षप् + अच् - णेरनिटि 6.4.51
क्षप् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
क्षप + टा - अजाद्यतष्टाप्‌ 4.1.4
क्षप + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
क्षपा - अकः सवर्णे दीर्घः 6.1.101
क्षपा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
क्षपा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षपा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68