त्रियामा

सुधाव्याख्या

त्रयो यामा यस्याः । आद्यन्तयोरर्धयामयोश्चेष्टाकालत्वेन दिनप्रायत्वात् । यद्वा त्रीन्धर्मादीन् यापयति निरवकाशीकरोति कामप्रधानत्वात् । अन्तर्भावितण्यर्थाद्यातेः अर्तिस्तुसु-’ (उ० १.१४०) इति मन् ।