विभावरी

सुधाव्याख्या

विभाति नक्षत्रादिभिः । क्वनिप् (३.२.७४) । ‘वनो र च' (४.१.७) इति डीब्रौ । विभावरी निशारात्र्योः कुट्टन्यां चक्रयोषिति । विवादे वस्त्रकुट्यां च ॥