रात्रिः

सुधाव्याख्या

राति सुखम् । ‘रा दाने (अ० प० से०) । राशदिभ्यां त्रिप्' (उ० ४.६७) । ‘कृदिकारात्-' (ग० ४.१.४५) इति ङीषि रात्रीत्यपि । ‘रात्री रात्रिस्तमस्विनी’ इति शब्दार्णवः ।