पङ्कम्

सुधाव्याख्या

पच्यते दुःखमनेन । ‘पचि व्यक्तीकरणे, विस्तारे वा’ (भ्वा०आ० से०) । करणे घञ् (३.३.१९) । कुत्वम् (७.३.५२) । यद्वा-पञ्चनं पङ्को व्यक्तीकरणम्, विस्तारो वा । तं करोति । ‘तत्करोति-'(वा०३१.२६) इति णिच् । ततः पचाद्यच् (३.१.१३४) । ‘पङ्कोऽघे कर्दमे' इति हैम: ।