पापम्

सुधाव्याख्या

पान्त्यस्मादात्मानम् । ‘पा रक्षणे (अ० प० अ०) । ‘पानीविषिभ्यः प:' (उ० ३.२३) । भीमादित्वात् (३.४.७४) अपादाने । यद्वा पिबति भक्षयति कर्तारम् । ‘पा पाने’ (भ्वा० प० अ०)


प्रक्रिया

धातुः - पा रक्षणे


पा + प - पानीविषिभ्यः पः (३.२३) । उणादिसूत्रम् ।
पाप + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पाप + अम् - अतोऽम् 7.1.24
पापम् - अमि पूर्वः 6.1.107