किल्बिषम्

सुधाव्याख्या

केलयति क्रीडयति विषयेषु । ‘किल श्वैत्यक्रीडनयो:’ (तु० प० से०) । किलेर्बुक् च ' (उ० १.५०) इति टिषच् बुगागमश्च । किल्बिषं पापरोगयोः । अपराधेऽपि ॥