एनः

सुधाव्याख्या

यन्त्यधोऽनेन । एति गच्छति प्रायश्चित्तेनेति वा । ‘इण् गतौ' (अ० प० से०) । ‘इण आगसि’ (उ० ४.१९८) इत्यसुन्, नुडागमश्च । ‘एनः पापापराधयोः ।