कल्मषम्

सुधाव्याख्या

शुभं कर्म स्यति समाप्तं करोति । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । ‘आतोऽनुप-'(३.२.३) इति कः । पृषोदरादित्वात् (६.४.१०९) लत्वषत्वे । ‘कल्मषं किल्विषे क्लीबं पुंसि स्यान्नरकान्तरे' ।