अंहः

सुधाव्याख्या

अमति गच्छति । ‘अम गत्यादिषु’ (भ्वा० प० से०) । ‘अमेर्हुक्च (उ० ४.२१३) इत्यसुन्, हुगागमश्च । यद्वा अंहति । ‘अहि गतौ' (भ्वा० प० से०) । असुन् (उ० ४.१८९) । ‘अङ्घः’ इति केचित्पठन्ति । तत्र ‘अघि गतौ’ (भ्वा० आ० से०) धातोर्बोध्यः ।