अमरकोशः


श्लोकः

कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थ: सानुरस्त्रियाम् । उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कटक कटकः पुंलिङ्गः, नपुंसकलिङ्गः कटति, कट्यते वा । क्वुन् उणादिः अकारान्तः
2 स्नु स्नुः पुंलिङ्गः, नपुंसकलिङ्गः स्नौति जलम्, स्नाति वा । डु कृत् उकारान्तः
3 प्रस्थ प्रस्थः पुंलिङ्गः, नपुंसकलिङ्गः प्रतिष्ठन्तेऽत्र । कृत् अकारान्तः
4 सानु सानुः पुंलिङ्गः, नपुंसकलिङ्गः सनोति । ञुण् उणादिः उकारान्तः
5 उत्स उत्सः पुंलिङ्गः उनत्ति जलेन । उणादिः अकारान्तः
6 प्रस्रवण प्रस्रवणम् नपुंसकलिङ्गः प्रस्रवन्त्यापोऽस्मात् । ल्युट् कृत् अकारान्तः
7 वारिप्रवाह वारिप्रवाहः पुंलिङ्गः वारिण: प्रवाहः । तत्पुरुषः समासः अकारान्तः
8 निर्झर निर्झरः पुंलिङ्गः अप् कृत् अकारान्तः
9 झर झरः पुंलिङ्गः अप् कृत् अकारान्तः