वारिप्रवाहः

सुधाव्याख्या

वारीति । वारिण: प्रवाहः । निर्झरणम् । झॄष् वयोहानौ (दि० प० से०) । 'ॠदोरप्' (३.३.५७) । यत्तु निर्झरन्त्यनेन-इति विग्रहप्रदर्शनं मुकुटेन कृतम् । तन्न । करणेऽपोदुर्लभत्वात् । ल्युटा बाधात् । शबपि दुर्लभः । झॄपो दैवादिकत्वात् ॥