कटकः

सुधाव्याख्या

कटक इति । कटति, कट्यते वा । ‘कटे वर्षावरणयोः (भ्वा० प० से०) । 'क्वुन् शिल्पिसंज्ञयोः (उ० २.३२) । ‘कटकस्त्वद्रिनितम्बे बाहुभूषणे । (सेनायां राजधान्यां च)’ इति हैमः ॥