स्नुः

सुधाव्याख्या

स्नुरिति । स्नौति जलम्, स्नाति वा । ‘ष्णु प्रस्रवणे' (अ० प० अ०) । ‘ष्णा शौचे' (अ० प० से०) वा । मितद्रवादित्वात् (वा० ३.२.१८०) डुः ॥


प्रक्रिया

धातुः - ष्णु प्रस्रवणे


स्नु - धात्वादेः षः सः 6.1.64, निमित्तापाये नैमित्तिकस्याप्यपायः ।
स्नु + डु – डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम् (3.2.180) । वार्तिकम् ।
स्नु + उ - चुटू 1.3.7, तस्य लोपः 1.3.9
स्न् + उ टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
स्नु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्नु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्नु + रु - ससजुषो रुः 8.2.66
स्नु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्नुः - खरवसानयोर्विसर्जनीयः 8.3.15