प्रस्थः

सुधाव्याख्या

प्रतिष्ठन्तेऽत्र । घञर्थे कः (वा० ३.३.५८) । 'प्रस्थोऽस्त्रियां मानभेदे सानावुन्मित वस्तुनि’ ॥


प्रक्रिया

धातुः - ष्ठा गतिनिवृत्तौ


स्था - धात्वादेः षः सः 6.1.64, निमित्तापाये नैमित्तिकस्याप्यपायः ।
प्र + स्था + क – घञर्थे कविधानम् (3.3.58) । वार्तिकम् ।
प्र + स्था + अ लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्र + स्थ् + अ - आतो लोप इटि च 6.4.64
प्रस्थ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रस्थ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रस्थ + रु - ससजुषो रुः 8.2.66
प्रस्थ + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रस्थः - खरवसानयोर्विसर्जनीयः 8.3.15