उत्सः

सुधाव्याख्या

उत्स इति । उनत्ति जलेन । ‘उन्दी क्लेदने’ (रु० प० से०) । 'उन्दिगुधिकुषिध्यश्च' (उ० ३.६८) इति सः । कित्’ इत्यनुवृत्तेर्नलोपः । ‘उन्दति’ इति मुकुटेन कृतं विग्रहप्रदर्शनं प्रामादिकम् । उन्दे रौधादिकत्वात् ॥