अमरकोशः


श्लोकः

चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम् । धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः ॥ ४३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चषक चषकः पुंलिङ्गः, नपुंसकलिङ्गः चष्यतेऽनेन । क्वुन् उणादिः अकारान्तः
2 पानपात्र पानपात्रम् नपुंसकलिङ्गः पानस्य पात्रम् ॥ तत्पुरुषः समासः अकारान्तः
3 सरक सरकः पुंलिङ्गः, नपुंसकलिङ्गः स्रियते । वुन् उणादिः अकारान्तः
4 अनुतर्षण अनुतर्षणम् नपुंसकलिङ्गः अनुतर्षणम् । ल्युट् कृत् अकारान्तः
5 धूर्त धूर्तः पुंलिङ्गः धूर्वति । तन् उणादिः अकारान्तः
6 अक्षदेविन् अक्षदेवी पुंलिङ्गः अक्षैर्दीव्यति । णिनि कृत् नकारान्तः
7 कितव कितवः पुंलिङ्गः कितेन वाति वा । कृत् अकारान्तः
8 अक्षधूर्त अक्षधूर्तः पुंलिङ्गः अक्षेषु धूर्तः । तत्पुरुषः समासः अकारान्तः
9 द्य्यूतकृत् द्य्यूतकृत् पुंलिङ्गः द्यूतं करोति । क्विप् कृत् तकारान्तः