कितवः

सुधाव्याख्या

- ‘कि ज्ञाने (जु० प० अ०) । भावे क्तः (३.३.११४) । कितं वायति ॥ ‘ओ वै शोषणे' (भ्वा० प० अ०) । कितेन वाति वा । ‘वा गन्धने' (अ० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । 'कितवो धूर्तवन्मत्ते वञ्चके कनकाह्वये' इति विश्वः ॥