सरकः

सुधाव्याख्या

- सेति । स्रियते । ‘सृ गतौ (भ्वा० प० अ०) । ‘वुन् कृञादिभ्यः' (उ० ५.३५) । ‘सरकः शीधुपानेक्षुशीधुनोर्मद्यभाजने’ इत्यजयः । अपिशब्दात् सरकोऽप्यस्त्री । ‘सरकं वा नानुतर्षो ना’ इति रत्नकोषः ॥