चषकः

सुधाव्याख्या

- चेति । चष्यतेऽनेन । ‘चष भक्षणे' (भ्वा० उ० से०) । क्वुन् (उ० २.३२) । ‘चषकोऽस्त्री सुरापात्रे मद्यमद्यप्रभेदयोः’ (इति मेदिनी) ॥