अमरकोशः


श्लोकः

गव्यूतिः स्त्रीक्रोशयुगं नल्वः किष्कुचतु:शतम् । घण्टापथः संसरणं तत्पुरस्योपनिष्करम् ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गव्यूति गव्यूतिः पुंलिङ्गः, स्त्रीलिङ्गः तत्पुरुषः समासः इकारान्तः
2 क्रोषयुग क्रोषयुगम् नपुंसकलिङ्गः क्रोशयोर्युगम् । तत्पुरुषः समासः अकारान्तः
3 नल्व नल्वः पुंलिङ्गः नल्यते । उणादिः अकारान्तः
4 घण्टापथ घण्टापथः पुंलिङ्गः घण्टोपलक्षितः पन्थाः । तत्पुरुषः समासः अकारान्तः
5 संसरण संसरणम् नपुंसकलिङ्गः सम्भूय सरन्त्यत्र, अनेन, वा । ल्युट् उणादिः अकारान्तः
6 उपनिष्कर उपनिष्करम् नपुंसकलिङ्गः उपनिष्किरन्ति निस्सरन्ति सैन्यान्यत्र । अण् कृत् अकारान्तः