गव्यूतिः

सुधाव्याख्या

गव्यूतिरिति । 'गोर्यूतौ छन्दस्युपसंख्यानम्’ ‘अध्वपरिमाणे च' (वा० ६.१.७९) इत्यवादेशः । धन्वन्तरसहस्रं तु क्रोशः क्रोशद्वयं पुनः । गव्यूतं स्त्री तु गव्यूतिर्गोरुतं गोमतं च तत् इति वाचस्पतिः । 'धनुर्हस्तचतुष्टयम्’ ‘द्वाभ्यां धनुःसहस्राभ्यां गव्यूतिः पुंसि भाषितः’ इति शब्दार्णवः ॥