घण्टापथः

सुधाव्याख्या

घण्टेति । घण्टोपलक्षितः पन्थाः । शाकपार्थिवादिः (वा० २.१.६९) । यद्वा घण्टानां पन्थाः । घण्टाग्रहणं वादित्राणां तद्वतां हस्त्यादीनां चोपलक्षणम् । ‘ऋक्पूर्-’ (५.४.७४) इत्यः ।


प्रक्रिया

घण्टा + सु + पथिन् + सु - शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (2.1.60) । वार्तिकम् ।
घण्टा + पथिन् - सुपो धातुप्रातिपदिकयोः 2.4.71
घण्टा + पथिन् + अ - ऋक्पूरप्धूःपथामानक्षे 5.4.74
घण्टा + पथ् + अ - नस्तद्धिते 6.4.144
घण्टापथ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
घण्टापथ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
घण्टापथ + रु - ससजुषो रुः 8.2.66
घण्टापथ + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
घण्टापथः - खरवसानयोर्विसर्जनीयः 8.3.15