नल्वः

सुधाव्याख्या

नल्व इति । किष्कूणां हस्तानां चतुःशती । चतुःशतम्' इति तु पात्रादित्वात् (वा० २.४.३०) । चतुर्गुणं शतम्, इति वा । शाकपार्थिवादिः (वा० २.१.६९) । नल्यते । णल बन्धने’ (भ्वा० प० से०) । उल्वादित्वात् (उ० ४.९५) | वः । कात्यस्तु नल्वं हस्तशतम्' इत्याह । एकम् चतुःशतहस्तपरिमितस्य ।