उपनिष्करम्

सुधाव्याख्या

तदिति । तत् संसरणम् । पुरस्य चेद्भवति तदा । उपनिष्किरन्ति निस्सरन्ति सैन्यान्यत्र । कृ विक्षेपे’ (तु० प०. से०) । 'ॠदोरप्' (३.३.५७) इति मुकुटः । तन्न । अपो बाधकस्य ल्युटोऽपि ‘पुंसि’ (३.३.११८) इति घस्यापवादत्वात् । यद्वा उपनि:कीर्यते सैन्यैर्हन्यते । ‘कॄञ् हिंसायाम्' (क्र्या० उ० से०) । 'कर्मण्यण्' (३.३.५७) । इदुदुपधस्य- (८.३.४१) इति षः । (१) एकम् पुरमार्गस्य ।