संसरणम्

सुधाव्याख्या

सम्भूय सरन्त्यत्र, अनेन, वा । ‘सृ गतौ' (भ्वा० प० अ०) । -करणा-' (३.३.११७) इति ल्युट् इति मुकुटः । तन्न । घस्य ल्युडपवादत्वात् । बाहुलकाद्वा ल्युट् (३.३.११३) । युच् (उ० २.७८) तु युक्त: ॥ (२) ‘दश धन्वन्तरो राजमार्गो घण्टापथः स्मृतः’ इति चाणक्यः । द्वे राजमार्गस्य ।