अमरकोशः


श्लोकः

लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी । अश्मसारोऽथ मण्डूरं शिङ्घाणमपि तन्मले ॥ ९८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लोह लोहः पुंलिङ्गः, नपुंसकलिङ्गः लोहति, लुह्यते, वा । अच् कृत् अकारान्तः
2 शस्त्रक शस्त्रकम् नपुंसकलिङ्गः शस्यतेऽनेन । ष्ट्रन् कृत् अकारान्तः
3 तीक्ष्ण तीक्ष्णम् नपुंसकलिङ्गः तेजयति, तेज्यते वा, अनेन वा । क्स्न उणादिः अकारान्तः
4 पिण्ड पिण्डम् नपुंसकलिङ्गः पिण्डते, पिण्ड्यते वा । अच् कृत् अकारान्तः
5 कालायस कालायसम् नपुंसकलिङ्गः कालं च तदयश्च । टच् तद्धितः अकारान्तः
6 अयस् अयसः नपुंसकलिङ्गः अयते वा । असुन् उणादिः सकारान्तः
7 अश्मसार अश्मसारः पुंलिङ्गः अश्मनः सारः । तत्पुरुषः समासः अकारान्तः
8 मण्डूर मण्डूरम् नपुंसकलिङ्गः मण्डते(ति) । ऊरच् उणादिः अकारान्तः
9 शिङ्घाण शिङ्घाणम् नपुंसकलिङ्गः शिङ्घ्यते । आणक उणादिः अकारान्तः