तीक्ष्णम्

सुधाव्याख्या

तेजयति, तेज्यते वा, अनेन वा । ‘तिज निशाने’ (चु० प० से०) । ‘तिजेर्दीर्घश्च’ (उ० ३.१८) इति क्स्नः । ‘तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके । क्लीबं, यवाग्रके पुंसि तिग्मात्मत्यागिनोस्त्रिषु’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


तिजँ निशाने
तिज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तीज् + क्स्न – उणादि ३.१८
तीज् + स्न - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
तीग् + स्न - चोः कुः 8.2.30
तीक् + स्न - खरि च 8.4.55
तीक् + ष् + न - आदेशप्रत्यययोः 8.3.59
तीक्ष्ण - रषाभ्यां नो णः समानपदे 8.4.1
तीक्ष्णम्
x000D