शस्त्रकम्

सुधाव्याख्या

शस्यतेऽनेन । ‘शसु हिंसायाम्’ (भ्वा० प० से०) । ‘दाम्नीशस्-' (३.२.१८२) इति ष्ट्रन् । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥


प्रक्रिया

धातुः -


शसुँ हिंसायाम्
शस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शस् + ष्ट्रन् - दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे 3.2.182
शस् + त्र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, षः प्रत्ययस्य 1.3.6, निमित्तापाये नैमित्तिकस्याप्यपायः ।
शस्त्र + कन् – ज्ञापि ५.४.५
शस्त्रकम् - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
x000D