शिङ्घाणः

सुधाव्याख्या

शिङ्घ्यते । ‘शिघि आघ्राणे' (भ्वा० प० से०) । ‘आणको लूधूशिङ्घिधाञ्भ्यः’ (उ० ३.८३) । पृषोदरादिः (६.३.१०९) । सिंहमाणयति वा । कर्मण्यण् (‘शिङ्घाणं काचपात्रे च लोहनासिकयोर्मले' इति मेदिनी) ‘सिंहानम्' इति पाठे सिंहवदनिति । ‘अन प्राणने' (अ० प० से०) । अच् (३.१.१३४) । हिंसमानयति वा । ‘कर्मण्यण्' (३.२.१) ॥