लोहः

सुधाव्याख्या

लोह इति । लोहति, लुह्यते, वा । ‘लुह गार्ध्ये () । अच् (३.१.१३४) । घञ् (३.३.१९) वा । लूयतेऽनेन वा । ‘लूञ् छेदने' (क्र्या० उ० से०) । बाहुलकाद् हः । रुह्यते, रोहति वा । ‘रुह प्रादुर्भावे' (भ्वा० प० अ०) । घञ् (३.३.१९) । अच् (३.१.१३४) वा । कपिलिकादित्वात् (वा० ८.२.१८) लत्वम् । ‘लोहोऽस्त्री शस्त्रके लोहं जोङ्गके सर्वतैजसे’ (इति मेदिनी) । प्रज्ञाद्यणि ‘लौहम्’ ॥