पिण्डम्

सुधाव्याख्या

पिण्डते, पिण्ड्यते वा । ‘पिडि सङ्घाते’ (भ्वा० आ० स०) । अच् (३.१.१३४) । घञ् (३.३.१९) वा । ‘पिण्डो बोले बले सान्द्रे देहागारैकदेशयोः । देहमात्रे निवापे च गालसिल्हकयोरपि । ओण्ड्रपुष्पे च पुंसि स्यात् क्लीबमाजीवनायसोः । पिण्डी तु पिण्डतगरेऽलावूखर्जूरभेदयोः' (इति मेदिनी) ॥