अमरकोशः


श्लोकः

रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् । शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्ठोदुम्बराणि च ॥ ९७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रीति रीतिः स्त्रीलिङ्गः रीयते । क्तिन् स्त्रीप्रत्ययः इकारान्तः
2 आरकूट आरकूटः पुंलिङ्गः, नपुंसकलिङ्गः घञ् कृत् अकारान्तः
3 ताम्रक ताम्रकम् नपुंसकलिङ्गः ताम्यति, तम्यते, वा । रक् उणादिः अकारान्तः
4 शुल्ब शुल्बम् नपुंसकलिङ्गः शुल्वयति, शुल्व्यते, वा । बन् उणादिः अकारान्तः
5 म्लेच्छमुख म्लेच्छमुखम् नपुंसकलिङ्गः म्लेच्छदेशे मुखमुत्पत्तिरस्य । बहुव्रीहिः समासः अकारान्तः
6 द्व्यष्ट द्व्यष्टम् नपुंसकलिङ्गः द्वे हेमरूप्ये अश्नुते स्म । क्त कृत् अकारान्तः
7 वरिष्ट वरिष्टम् नपुंसकलिङ्गः अतिशयेन वरम्, इष्ठन् तद्धितः अकारान्तः
8 उदुम्बर उदुम्बरम् नपुंसकलिङ्गः उं शम्भुं वृणोति । खच् कृत् अकारान्तः