शुल्बम्

सुधाव्याख्या

शलति । ‘शल गतौ’ (भ्वा० प० से०) । ‘उल्वादयश्च’ (उ० ४.९५) इति साधु । यद्वा शुल्वयति, शुल्व्यते, वा । ‘शुल्व माने’ (चु० प० से०) । अच् (३.१.१३४) । घञ् (३.३.१९) । ‘एरच् (३.३.५६) वा । ‘शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसंनिधौ’ इति हेमचन्द्रः ॥


प्रक्रिया

धातुः -


शलँ गतौ
शल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुल्बम् – उणादि ४.९५
x000D